You are currently viewing Happy Ganesh Chaturthi | Ganesh Chaturthi hindi english quotes vinayaka chaturthi
Happy-Ganesh-Chaturthi-Ganesh-Chaturthi-hindi-english-quotes-vinayaka

Happy Ganesh Chaturthi | Ganesh Chaturthi hindi english quotes vinayaka chaturthi



॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥ श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः । नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥ स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च । नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥ वरदाभयहस्ताय नमः परशुधारिणे । नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥ अनामयाय सर्वाय सर्वपूज्याय ते नमः । सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥ ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते । आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥ मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः । अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥ विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते । त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥ किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् । तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥ तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ । श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥ भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् । भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥ धनधान्यादिकं सर्वं लभते तेन निश्चितम् । इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥
We have created an app for Vedic Sangrah
It is a repository of stories, Aarti, Stotram etc. We can call it a pocketbook.

I hope everyone will install this app and provide us with a 5-star rating! Also, review our app
Those who are having android version 9 and above can install this app, the link is given below:
https://play.google.com/store/apps/details…

Vedics on Facebook: https://www.facebook.com/vedics.in
Vedics on Twitter: https://twitter.com/ShubhraAmbuj
Vedics on Instagram: https://instagram.com/shubhra_vedics.in

Email us for Business & Sponsorship
[email protected]
#Ganesha #lordganesha #happyganeshchaturthi
Happy Ganesh Chaturthi | Ganesh Chaturthi hindi english quotes vinayaka chaturthi
#Happy #Ganesh #Chaturthi #Ganesh #Chaturthi #hindi #english #quotes #vinayaka #chaturthi

Youtube Channel

Leave a Reply